top of page
इन्द्राणीसप्तशती (गणपतिमुनिविरचिता) | Indrani saptashati Part-02
॥ अथ पञ्चमं पाङ्क्तं शतकम् ॥
॥ प्रथमो मयूरसारिणीपादः ॥
प्रेमवासभूमिरच्छभावस्थानमानमज्जनाघहा मे ।
इन्द्रसुन्दरी मुखाब्जभासी मन्दहास आपदं धुनोतु ॥ ४०१॥
वीक्षितैः कृपान्वितैर्हरन्ती पातकानि मङ्गलं भणन्ती ।
जम्भभेदिजीवितेश्वरी मे जन्मदेशमुज्ज्वलं करोतु ॥ ४०२॥
अम्बरं च देवतानतभ्रूरम्ब ते तनुद्वयं यदुक्तम् ।
आदिमा तयोर्वृषाकपिं तं देव्यजीजनत्परा जयन्तम् ॥ ४०३॥
एतमेव देवि लोकबन्धुं सूरयो…
bottom of page
